Sunday, 28 February 2016

श्री विष्णु सहस्र्नाम स्तोत्रं (पद्य प्रसूनाञ्जलि: एवं शंकर भाष्यार्थ संग्रः) - १

स्तोत्रम् ||
हरिः  |
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः १॥

. विश्वं
शंकर भाष्यार्थसंग्रः
विश्वस्यादिहेतुत्वात विश्वं भगवान स्मृतः
विश्वाभेदात्ततत्प्रवेशाद्विश्वस्यास्मिन् लयादपि
पद्य प्रसूनाञ्लिः
विश्वस्य कारणत्वाच्च तत्सृष्ट्वा तत्प्रवेशनात्
विशन्त्यस्मिन्श्च भूतानि तेन विश्वाभिधो हरिः

Vishnu, the Supreme Brahman, is the Source / Cause of Creation, Sustenance and Dissolution of the Universe. The Universe (which is the Effect) has no separate independent existence. The Supreme Brahman (Vishnu) (the Cause), having created the Universe, entered into it. Hence, the Universe is none other than the Supreme. Thus, He is both cause and effect. The Brahman enters into its effect, the Universe; and the Universe dissolves in Him.  Thus, in both these senses, He is “vishvaM”.

. विष्णु:
शंकर भाष्यार्थसंग्रः
विष्णुरन्तर्बहिर्व्याप्तेः सर्वत्राथ प्रवेशनात्
पद्य प्रसूनाञ्लिः
विष्षोर्व्याप्त्यभिधायित्वाद्वेष्टि व्याप्नोति वा जगत् ।
प्रवेशनाद्विशेर्थातोर्विष्णुरित्युच्यते बुधैः ॥

One who pervades everything by transcending time and space.

. वषट्कारः
शंकर भाष्यार्थसंग्रः
वषट्कारस्तदुद्देश्याधारतन्मन्त्ररूपवान्
पद्य प्रसूनाञ्लिः
वषट्क्रिया यदुद्देश्या यस्मिन यज्ञेऽथवा हरौ ।
यज्ञो वा इति च श्रृत्या त्वं वषट्कार इत्यपि ॥

One who is extolled with the holy mantra “vaSaTkAra” in sacrificial rites.  It is with this holy utterance, the Vedic deities get satisfied.

. भूतभव्यभवत्प्रभुः
शंकर भाष्यार्थसंग्रः
त्रिकालवस्तुस्वामित्वाद्भूतभव्यभवत्प्रभुः
पद्य प्रसूनाञ्लिः
जातं जनिष्यमाणं च जायमानं च यज्ज्गत् ।
तेषां प्रभुर्नियंतृत्वाद्भूतभव्यभवत्प्रभुः ॥
One, who is master of the past, present, future and thus Eternal Being, and, hence, the Lord.

. भूतकृत्
शंकर भाष्यार्थसंग्रः
भूतकृत्द्भूतकरणाद्भूतानां कृन्तनादपि।
पद्य प्रसूनाञ्लिः
चतुराननरूपेण रजोगुणसमाश्रयात् ।
करोति यस्माद्भूतानि भूतकृद्विष्णुरीरितः ॥

One who assuming Rajo Guna becomes Brahma and creates the Universe; and by assuming Tamo Guna becomes Rudra and dissolves the Universe.

६. भूतभृत्
शंकर भाष्यार्थसंग्रः
भूतभृद्भूतपालत्वाद्धारणात्पोषणादपि ।
पद्य प्रसूनाञ्लिः
सात्विकं गुणमास्थाय भूतानि च बिभर्ति यः ।
भूतभृत्तेन निर्दिष्टो विष्णुः पोषयतीति वा ॥

One who supports or sustains or governs the Universe by assuming Sattva Guna.

७. भावः
शंकर भाष्यार्थसंग्रः
भावः प्रपञ्चरूपेण सत्त्वात्सत्तात्वतोऽथवा ॥
पद्य प्रसूनाञ्लिः
सर्वप्रपञ्चरूपेण भावः स्याद्भवतीति सः ।
सत्तात्मको वा भवनं भाव इत्यपि वै हरिः ॥

One who expands Himself as Universe; also remains as Pure Existence

. भूतात्मा
शंकर भाष्यार्थसंग्रः
भूतात्मा सत्वभूतानां अन्तर्यामितया मतः ॥
पद्य प्रसूनाञ्लिः
आत्मेतिसर्वभूतानां भूतात्मा स निगद्यते ।
प्रमाणमिति तत्रात्मान्तर्यामीति श्रुतिः पुरा ॥

One who is the essence of all beings; he is the indweller of all objects, individually and collectively.

९. भूतभावनः
शंकर भाष्यार्थसंग्रः
भूतानाम् जननात्तेषां वर्धनाद्भूत्भावनः
पद्य प्रसूनाञ्लिः
भावयन् सर्वभूतानि जनयन् स जनार्दनः ।
अथवा वर्धयंश्चैव ततोऽयं भूतभावनः ॥

One who generates or nourishes all the beings.


****

No comments:

Post a Comment