श्री गुरुमूर्ति स्तवम्
श्रीशंकराचार्यकृत स्तवोक्त् महिमाब्दये ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(1)
ब्रह्मवर्तस्थ भाण्डीर वटमूलनिवासिने ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(2)
भस्मोद्धूळित
सर्वाङ सुन्दराय महात्मने ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(3)
सर्वलोकसमाराध्य
चरणाम्बुरुहाय च ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(4)
फणिभूषाय चन्द्रार्धधारिणे
कृत्तिवासिने ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(5)
वीणाक्षमाला चिन्मुद्रा
पुस्तकाढ्यकराय च ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(6)
योगपट्टाभिरामाय
व्याघ्रचमाॅसनाय च ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(7)
प्रसन्नशान्त
गंभीर मुखायानन्दरोचिषे ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(8)
आत्मानन्द महासिन्धु
निर्मग्नोदारचेतसे ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(9)
जिज्ञासुवृद्धशिष्याळी
समावृतयुवात्मने ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(10)
मौनव्याख्यासुप्रकाशित
आत्मतत्वानुभूतये ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(11)
मेधात्मने कृपापूर्ण
शिष्यहृत्ग्रन्धिभेदिने ।
दक्षिणामूर्तये तुभ्यं नमः श्रीगुरुमूर्तये ॥
(12)
गुरुमूर्तिस्तवं
इदं यः पठेत्सुसमाहितः ।
सभक्तः प्राप्नुयाच्छीघ्रं
विद्यां मेधां बलं श्रियम् ॥
The mentioned "श्री गुरुमूर्ति स्तवम्" is a hymn dedicated to Lord Dakshinamurthi (also called Gurumurthi) that has been handed down in our tradition.
ReplyDelete